Ganesha Pancharatnam – Mudakaratha Modakam lyrics in Hindi – गणेश पंचरत्न स्तोत्र

श्री गणेश पंचरत्न स्तोत्र

मुदाकरात्त मोदकं सदा विमुक्ति साधकं
कला धरावतंसकं विलासिलोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकं
नताशुभाशु नाशकं नमामि तं विनायकम् ॥1॥

नतेतराति भीकरं नवोदितार्क भास्वरं
नमत्सुरारि निर्जरं नताधिकाप दुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥2॥

समस्तलोक शंकरं निरस्तदैत्य कुञ्जरं
दरेतरोदरं वरं वरेभवक्त्र मक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥3॥

अकिंचनार्ति मार्जनं चिरन्तनोक्ति भाजनं
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्चनाश भीषणं धनंजयादि भूषणम्
कपोलदान वारणं भजे पुराण वारणम् ॥4॥

नितान्तकान्त दन्तकान्ति मन्तकान्त कात्मजं
अचिन्त्यरूप मन्त हीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥5॥

महागणेश पञ्चरत्न मादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ॥6॥

Leave a Comment