श्री शिव षडाक्षर स्तोत्र
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥1॥
नमंति ऋषयो देवा नमन्त्यप्स रसां गणाः ।
नरा नमंति देवेशं नकाराय नमो नमः ॥2॥
महादेवं महात्मानं महाध्यानं परायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥3॥
शिवं शांतं जगन्नाथं लोकानुग्रह कारकम् ।
शिवमेक पदं नित्यं शिकाराय नमो नमः ॥4॥
वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥5॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥6॥
षडाक्षर मिदं स्तोत्रं यः पठे च्छिवसंनिधौ ।
शिवलोक मवाप्नोति शिवेन सहमोदते ॥7॥
॥ इथि श्रीमत शंकराचार्य विरचितं शिव षडाक्षर स्तोत्रं सम्पूर्णम ॥